अ 07 : श 09
पुण्यो गन्धः पृथिव्यां च तेजश्चास्मि विभावसौ ।
जीवनं सर्वभूतेषु तपश्चास्मि तपस्विषु ॥
संधि विच्छेद
पुण्यः गन्धः पृथिव्यां च तेजः च अस्मि विभावसौ ।
जीवनं सर्वभूतेषु तपः च अस्मि तपस्विषु ॥
मैं पृथ्वी में स्थित सुगंध हूँ ,अग्नि में तेज हूँ, सम्पूर्ण जीवों में चेतना और तपस्वियों में तप हूँ॥