श्रीभगवानुवाच
इदं तु ते गुह्यतमं प्रवक्ष्याम्यनसूयवे ।
ज्ञानं विज्ञानसहितं यज्ज्ञात्वा मोक्ष्यसेऽशुभात् ॥
राजविद्या राजगुह्यं पवित्रमिदमुत्तमम् ।
प्रत्यक्षावगमं धर्म्यं सुसुखं कर्तुमव्ययम् ॥
श्रीभगवानुवाच
इदं तु ते गुह्यतमं प्रवक्ष्यामि अनसूयवे ।
ज्ञानं विज्ञान सहितं यत् ज्ञात्वा मोक्ष्यसे अशुभात् ॥
राजविद्या राजगुह्यं पवित्रम् इदं उत्तमम् ।
प्रत्यक्ष अवगमं धर्म्यं सुसुखं कर्तुम् अव्ययम् ॥